१.६०.२

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् ।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥

अन्वयः

दक्षिणां दिशं In southern quarter, आस्थित: taking hold of, अयम् महान् this great, विघ्न: obstruction, प्रवृत्त: taken place, अन्याम् another, दिशम् region, प्रपत्स्याम: we will take, तत्र there, तप: austerities, तप्स्यामहे we will perform.

पदच्छेदः

महाविघ्नःमहत्–विघ्न (१.१)
प्रवृत्तोप्रवृत्त (√प्र-वृत् + क्त, १.१)
ऽयंइदम् (१.१)
दक्षिणाम्दक्षिण (२.१)
आस्थितोआस्थित (√आ-स्था + क्त, १.१)
दिशम्दिश् (२.१)
दिशम्दिश् (२.१)
अन्यांअन्य (२.१)
प्रपत्स्यामस्प्रपत्स्यामः (√प्र-पद् लृट् उ.पु. द्वि.)
तत्रतत्र (अव्ययः)
तप्स्यामहेतप्स्यामहे (√तप् लृट् उ.पु. द्वि.)
तपःतपस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हा वि घ्नःप्र वृ त्तो ऽयं
क्षि णा मास्थि तोदि शम्
दि न्यांप्र त्स्या
स्तत्र प्स्या हे पः