१.६०.४

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥

अन्वयः

महातेजा: exceedingly powerful, महामुनि: great muni, एवम् thus, उक्त्वा having spoken, पुष्करेषु in pushkara land, मूलफलाशन: living of fruits and roots, दुराधर्षम् unsurpassable, उग्रम् intense, तप: austerities, तेपे performed.

Summary

With this the most powerful sage Viswamitra reached Pushkara where living on fruits and roots, he carried out intense, unsurpassable, austerities.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
महातेजाःमहत्–तेजस् (१.१)
पुष्करेषुपुष्कर (७.३)
महामुनिःमहत्–मुनि (१.१)
तपतपस् (२.१)
उग्रंउग्र (२.१)
दुराधर्षंदुराधर्ष (२.१)
तेपेतेपे (√तप् लिट् प्र.पु. एक.)
मूलफलाशनःमूल–फल–अशन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्त्वा हा ते जाः
पुष्क रेषु हामु निः
ग्रंदु रा र्षं
ते पे मू ला नः