१.६०.८

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।
आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥

अन्वयः

पुरुषर्षभ O Best of men, एतत् this one, महत् great, प्रायश्चित्तम् expiation, नरं वा either man, पशुम् as beast, शीघ्रम् speedily, आनयस्व bring, कर्म the sacrifice, यावत् प्रवर्तते may be completed.

Summary

"O Best of men you must pay a big price for this. Bring either the beast or a man immediately so that the sacrifice can be completed".

पदच्छेदः

प्रायश्चित्तंप्रायश्चित्त (१.१)
महद्ध्य्महत् (१.१)–हि (अव्ययः)
एतन्एतद् (१.१)
नरंनर (२.१)
वावा (अव्ययः)
पुरुषर्षभपुरुष–ऋषभ (८.१)
आनयस्वआनयस्व (√आ-नी लोट् म.पु. )
पशुंपशु (२.१)
शीघ्रंशीघ्रम् (अव्ययः)
यावत्यावत् (अव्ययः)
कर्मकर्मन् (१.१)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा श्चि त्तं द्ध्ये
न्न रं वापुरुर्ष
स्व शुं शी घ्रं
या त्क र्मप्रर्त ते