१.६१.२६

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥

अन्वयः

नरश्रेष्ठ O Foremost of men, राम Rama, स: राजा च that king also, सहस्राक्षप्रसादजम् through the grace of Indra, बहुगुणम् several times, यज्ञस्य of sacrifice, फलम् fruits, समाप्तवान् obtained.

Summary

O Foremost of men O Rama the king also obtained from the sacrifics innumerable rewards by the grace of Indra several times greater than expected.

पदच्छेदः

तद् (१.१)
(अव्ययः)
राजाराजन् (१.१)
नरश्रेष्ठनर–श्रेष्ठ (८.१)
यज्ञस्ययज्ञ (६.१)
(अव्ययः)
समाप्तवान्समाप्तवत् (√सम्-आप् + क्तवतु, १.१)
फलंफल (२.१)
बहुगुणंबहुगुण (२.१)
रामराम (८.१)
सहस्राक्षप्रसादजम्सहस्राक्ष–प्रसाद–ज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा जा श्रेष्ठ
ज्ञस्य माप्त वान्
लंहुगु णं रा
स्रा क्षप्र सा जम्