१.६२.१५

तस्य वर्षसहस्रं तु घोरं तप उपासतः ।
उत्तरे पर्वते राम देवतानामभूद्भयम् ॥

अन्वयः

राम O Rama, तस्य for him, उत्तरे पर्वते on the northern mountains, वर्षसहस्रम् a thousand years, घोरम् fearful, तप: penance, उपासत: while performing, देवतानाम् to devatas, भयम् अभूत् fear arose.

Summary

O Rama while he was performing rigorous penance for a thousand years on the northern mountains, the gods were gripped with fear. (lest he should exceed them).

पदच्छेदः

तस्यतद् (६.१)
वर्षसहस्रंवर्ष–सहस्र (२.१)
तुतु (अव्ययः)
घोरंघोर (२.१)
तपतपस् (२.१)
उपासतःउपासत् (√उप-आस् + शतृ, ६.१)
उत्तरेउत्तर (७.१)
पर्वतेपर्वत (७.१)
रामराम (८.१)
देवतानाम्देवता (६.३)
अभूद्अभूत् (√भू प्र.पु. एक.)
भयम्भय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यर्ष स्रंतु
घो रं पा तः
त्त रेर्व ते रा
दे ता ना भूद्भ यम्