१.६२.२

अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः ।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥

अन्वयः

सुमहातेजा: exceedingly effulgent, ब्रह्मा Brahma, सुरुचिरम् attractive, वच: words, अब्रवीत् spoke, त्वम् you, स्वार्जितै: with selfearned, शुभै: कर्मभि: sacred deeds, ऋषि: असि have become Rishi, ते भद्रम् prosperity to you.

Summary

Exceedingly effulgent Brahma spoke to him, "You have become a rishi through the selfearned sacred deeds. Fare you well".

पदच्छेदः

अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
सुमहातेजासु (अव्ययः)–महत्–तेजस् (१.१)
ब्रह्माब्रह्मन् (१.१)
सुरुचिरंसु (अव्ययः)–रुचिर (२.१)
वचःवचस् (२.१)
ऋषिस्ऋषि (१.१)
त्वम्त्वद् (१.१)
असिअसि (√अस् लट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
स्वार्जितैःस्व–अर्जित (√अर्जय् + क्त, ३.३)
कर्मभिःकर्मन् (३.३)
शुभैःशुभ (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र वीत्सु हा ते जा
ब्र ह्मासुरुचि रं चः
षिस्त्वसि द्रं ते
स्वार्जि तैःर्म भिःशु भैः