१.६२.२०

ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।
यदि मे भगवानाह ततोऽहं विजितेन्द्रियः ॥

अन्वयः

भगवान् adorable one, स्वार्जितै: earned by me, शुभै: by the auspicious, कर्मभि: deeds, अतुलम् incomparble, महर्षिशब्दम् title of Maharshi, मे to me, आह यदि if it has been told, तत: then, अहम् I, विजितेन्द्रिय: have conquered my senses.

Summary

"O Adorable one, if you have conferred the incomparable title of 'Maharshi' earned by my auspicious deeds, I feel I have conquered the senses."

पदच्छेदः

यदियदि (अव्ययः)
मेमद् (४.१)
भगवान्भगवन्त् (१.१)
आहआह (√अह् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
ऽहंमद् (१.१)
विजितेन्द्रियःविजित (√वि-जि + क्त)–इन्द्रिय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र ह्मर्षिब्दतु लं
स्वार्जि तैःर्म भिःशु भैः
दि मे वा ना
तो ऽहंविजि तेन्द्रि यः