१.६२.२१

तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः ।
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ॥

अन्वयः

तत: then, ब्रह्मा Brahma, तम् addressing him, उवाच said, त्त्वम् you, जितेन्द्रियस्तावत् having conquered the senses, न not, मुनिशार्दूल O Best among ascestics, यतस्व strive still, इति thus, उक्त्वा having spoken, त्रिदिवम् towards heaven, गत: went.

Summary

Then Brahma said to him, 'You have not conquered the senses yet. O Tiger among ascetics, strive still.' Having said this he went toward heaven.

पदच्छेदः

तम्तद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
ब्रह्माब्रह्मन् (१.१)
(अव्ययः)
तावत्तावत् (अव्ययः)
त्वंत्वद् (१.१)
जितेन्द्रियःजित (√जि + क्त, १.१)–इन्द्रिय (१.१)
यतस्वयतस्व (√यत् लोट् म.पु. )
मुनिशार्दूलमुनि–शार्दूल (१.१)
इत्य्इति (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
त्रिदिवंत्रिदिव (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु वा तो ब्र ह्मा
ता त्त्वंजि तेन्द्रि यः
स्वमुनि शा र्दू
त्यु क्त्वात्रिदि वं तः