१.६२.६

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ।
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥

अन्वयः

दृष्ट्वा having seen, मुनि: sage Visvamitra, कन्दर्पवशग: under the influence of Kandarpa, Cupid, ताम् her, इदम् these words, अब्रवीत् spoke, अप्सर: O Apsarasa, ते to you, स्वागतम् अस्तु wecome, मम my, इह here, आश्रमे hermitage, वस च dwell, मदनेन by Manmatha, सुमोहितम् highly infatuated, अनुगृह्णीष्व favour me, ते भद्रम् safety to you.

Summary

On seeing her (Menaka) Viswamitra came under the influence of the god of love (fell in love with her). He said, O Apsara welcome to my hermitage stay here. I am infatuated with you: Oblige me. Wish you well.

पदच्छेदः

दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
कन्दर्पवशगोकन्दर्प–वशग (१.१)
मुनिस्मुनि (१.१)
ताम्तद् (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
अप्सरःअप्सरस् (८.१)
स्वागतंस्वागत (१.१)
तेत्वद् (४.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
वसवस (√वस् लोट् म.पु. )
चेह (अव्ययः)–इह (अव्ययः)
ममाश्रमेमद् (६.१)–आश्रम (७.१)
अनुगृह्णीष्वअनुगृह्णीष्व (√अनु-ग्रह् लोट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
मदनेनमदन (३.१)
सुमोहितम्सु (अव्ययः)–मोहित (√मोहय् + क्त, २.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
दृ ष्ट्वा न्दर्प गोमु नि स्तामि
ब्र वीत्प्स रः स्वा तं तेऽस्तु
चे माश्र मेनु गृ ह्णी
ष्व द्रं ते नेसु मोहि तम्