१.६२.९

अथ काले गते तस्मिन्विश्वामित्रो महामुनिः ।
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ॥

अन्वयः

अथ there after, तस्मिन् काले when that period, गते was spent, महामुनि: mighty ascetic, विश्वामित्र: Visvamitra, चिन्ताशोकपरायण: filled with grief and sorrowful thought, सव्रीड इव as though with shame, सम्वृत्त: became.

Summary

As the period passed, Viswamitra the mighty ascetic was filled with grief, anxiety and remorse.

पदच्छेदः

अथअथ (अव्ययः)
कालेकाल (७.१)
गतेगत (√गम् + क्त, ७.१)
तस्मिन्तद् (७.१)
विश्वामित्रोविश्वामित्र (१.१)
महामुनिःमहत्–मुनि (१.१)
सव्रीड (अव्ययः)–व्रीडा (१.१)
इवइव (अव्ययः)
संवृत्तश्संवृत्त (√सम्-वृत् + क्त, १.१)
चिन्ताशोकपरायणःचिन्ता–शोक–परायण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का ले तेस्मि
न्वि श्वा मि त्रो हामु निः
व्री सं वृत्त
श्चि न्ता शो रा णः