१.६४.११

ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥

अन्वयः

ब्रह्मर्षे O Brahmarshi, ते to you, स्वागतम् welcome, तपसा with your austerities, सुतोषिता: स्म: we are immensely pleased, कौशिक O Viswmitra, उग्रेण by intense, तपसा austerities, ब्राह्मण्यम् brahminhood, प्राप्तवान् असि you have attained.

Summary

"Welcome, O Brahmarshi. We are immensely pleased with your austerities. O Kausika you have attained brahminhood by means of your intense penance.

पदच्छेदः

ब्रह्मर्षेब्रह्मर्षि (८.१)
स्वागतंस्वागत (१.१)
तेत्वद् (४.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
तपसातपस् (३.१)
स्मस्म (अव्ययः)
सुतोषिताःसु (अव्ययः)–तोषित (√तोषय् + क्त, १.३)
ब्राह्मण्यंब्राह्मण्य (२.१)
तपसोग्रेणतपस् (३.१)–उग्र (३.१)
प्राप्तवान्प्राप्तवत् (√प्र-आप् + क्तवतु, १.१)
असिअसि (√अस् लट् म.पु. )
कौशिककौशिक (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र ह्म र्षे स्वा तं तेऽस्तु
सास्मसु तोषि ताः
ब्रा ह्म ण्यं सो ग्रे
प्राप्त वासि कौशि