१.६४.६

न ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्यथ ।
न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।
विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥

अन्वयः

अथ also, अस्य his, सूक्ष्ममपि even minute, वृजिनम् sin, किञ्चित् a little, न दृश्यते not to be seen, अस्य his, मनसा by mind, यत् which, अभीप्सितम् is desired, न दीयते यदि if not given, तपसा with his austerities, सचराचरम् moveable and immoveable, त्रैलोक्यम् the three worlds together, विनाशयति will destroy.

Summary

His penance was flawless. If his wishes were not granted, he will surely destroy by his austerities the three worlds with all movables and immovables.

पदच्छेदः

(अव्ययः)
ह्य्हि (अव्ययः)
अस्यइदम् (६.१)
वृजिनंवृजिन (१.१)
किंचिद्कश्चित् (१.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
सूक्ष्मम्सूक्ष्म (१.१)
अप्य्अपि (अव्ययः)
अथअथ (अव्ययः)
(अव्ययः)
दीयतेदीयते (√दा प्र.पु. एक.)
यदियदि (अव्ययः)
त्व्तु (अव्ययः)
अस्यइदम् (६.१)
मनसामनस् (३.१)
यद्यद् (१.१)
अभीप्सितम्अभीप्सित (१.१)
विनाशयतिविनाशयति (√वि-नाशय् लट् प्र.पु. एक.)
त्रैलोक्यंत्रैलोक्य (२.१)
तपसातपस् (३.१)
सचराचरम् (अव्ययः)–चराचर (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२१३१४१५१६
ह्यस्यवृजि नं किं चि द्दृश्य ते सूक्ष्मप्य
दी ते दि त्वस्य सा भीप्सि तम्
वि ना ति त्रै लो क्यं सा रा रम्
व्याकु लाश्चदि शः र्वा किं चित्प्र का ते