१.६४.७

सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।
प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ॥

पदच्छेदः

सागराःसागर (१.३)
क्षुभिताःक्षुभित (√क्षुभ् + क्त, १.३)
सर्वेसर्व (१.३)
विशीर्यन्तेविशीर्यन्ते (√वि-शृ प्र.पु. बहु.)
(अव्ययः)
पर्वताःपर्वत (१.३)
प्रकम्पतेप्रकम्पते (√प्र-कम्प् लट् प्र.पु. एक.)
(अव्ययः)
पृथिवीपृथिवी (१.१)
वायुर्वायु (१.१)
वातिवाति (√वा लट् प्र.पु. एक.)
भृशाकुलःभृश–आकुल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा राःक्षुभि ताः र्वे
वि शी र्य न्तेर्व ताः
प्रम्प तेपृथि वी
वा यु र्वातिभृ शाकु लः