१.६५.११

ततो विमनसः सर्वे देवा वै मुनिपुंगव ।
प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥

अन्वयः

मुनिपुङ्गव O Eminent ascetic, तत: thereater, सर्वे all, देवा: devatas, विमनस: with dejected minds, देवेशम् lord of devatas, Siva, प्रसादयन्ति propitiated, भव: Siva, तेषाम् in their matter, प्रीत: अभवत् was pleased.

Summary

"O Eminent ascetic thereafter all the gods with agitated minds propitiated lord of the gods, Siva and he was pleased with them.

पदच्छेदः

ततोततस् (अव्ययः)
विमनसःविमनस् (१.३)
सर्वेसर्व (१.३)
देवादेव (१.३)
वैवै (अव्ययः)
मुनिपुंगवमुनि–पुंगव (८.१)
प्रसादयन्तिप्रसादयन्ति (√प्र-सादय् लट् प्र.पु. बहु.)
देवेशंदेवेश (२.१)
तेषांतद् (६.३)
प्रीतोप्रीत (√प्री + क्त, १.१)
ऽभवद्अभवत् (√भू लङ् प्र.पु. एक.)
भवःभव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोवि सः र्वे
दे वा वैमुनि पुं
प्र सान्ति दे वे शं
ते षां प्री तोऽभद्भ वः