१.६५.१६

भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।
वरयामासुरागम्य राजानो मुनिपुंगव ॥

अन्वयः

मुनिपुङ्गव O Eminent ascetic, भूतलात् from the earth, उत्थिताम् arisen, वर्धमानां growing, ताम् that, आत्मजाम् my daughter, राजान: kings, आगम्य having arrived, वरयामासु: had sought.

Summary

O Eminent ascetic arisen from the earth and reared as my daughter, she has been sought after in marriage by many princes.

पदच्छेदः

भूतलाद्भू–तल (५.१)
उत्थितांउत्थित (√उत्-स्था + क्त, २.१)
तांतद् (२.१)
तुतु (अव्ययः)
वर्धमानांवर्धमान (√वृध् + शानच्, २.१)
ममात्मजाम्मद् (६.१)–आत्मजा (२.१)
वरयामासुर्वरयामासुः (√वरय् प्र.पु. बहु.)
आगम्यआगम्य (√आ-गम् + ल्यप्)
राजानोराजन् (१.३)
मुनिपुंगवमुनि–पुंगव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भू ला दुत्थि तां तांतु
र्ध मा नां मात्म जाम्
या मासु राम्य
रा जा नोमुनि पुं