१.६५.६

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ ।
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥

अन्वयः

एतत् this bow, दर्शय show, ते भद्रं prosperity to you, अस्य धनुष: this bow's, दर्शनात् on seeing it, कृतकामौ having fulfilled their desire, नृपात्मजौ these two princes, यथेष्टम् as they wish, प्रतियास्यत: will return.

पदच्छेदः

एतद्एतद् (२.१)
दर्शयदर्शय (√दर्शय् लोट् म.पु. )
भद्रंभद्र (१.१)
तेत्वद् (४.१)
कृतकामौकृत (√कृ + क्त)–काम (१.२)
नृपात्मजौनृप–आत्मज (१.२)
दर्शनाद्दर्शन (५.१)
अस्यइदम् (६.१)
धनुषोधनुस् (६.१)
यथेष्टंयथेष्ट (२.१)
प्रतियास्यतःप्रतियास्यतः (√प्रति-या लृट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्दर्श द्रं ते
कृ का मौनृ पात्म जौ
र्श नास्यनु षो
थे ष्टंप्रति यास्य तः