१.६५.९

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
रुद्रस्तु त्रिदशान्रोषात्सलीलमिदमब्रवीत् ॥

अन्वयः

पूर्वम् formerly, दक्षयज्ञवधे at the time of destruction of Daksha's sacrifice, वीर्यवान् possessing great prowess, रुद्र: Rudra, धनु: bow, आयम्य lifting, त्रिदशान् addressing devatas, रोषात् from anger, सलीलम् sportively, इदम् these words, अब्रवीत् spoke.

Summary

Earlier at the time of destruction of Daksha's sacrifice, Rudra endowed with great prowess lifted this bow sportively and spoke to the gods.

पदच्छेदः

दक्षयज्ञवधेदक्ष–यज्ञ–वध (७.१)
पूर्वंपूर्वम् (अव्ययः)
धनुर्धनुस् (२.१)
आयम्यआयम्य (√आ-यम् + ल्यप्)
वीर्यवान्वीर्यवत् (१.१)
रुद्रस्रुद्र (१.१)
तुतु (अव्ययः)
त्रिदशान्त्रिदश (२.३)
रोषात्रोष (५.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षज्ञ धे पू र्वं
नु राम्य वीर्य वान्
रु द्र स्तुत्रि शा न्रो षा
त्स लीमिब्र वीत्