१.६६.१२

विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत् ॥

अन्वयः

धर्मात्मा righteous, विश्वामित्रस्तु Visvamitra on his part, जनकभाषितम् words of Janaka, श्रुत्वा having heard, वत्स O Child, राम O Rama, धनु: bow, पश्य see, इति saying so, राघवम् addressing Rama, अब्रवीत् spoke.

Summary

Having heard the words of Janaka, the righteous Viswamitra said: "O Child O Descendant of Raghu look at this bow".

पदच्छेदः

विश्वामित्रस्विश्वामित्र (१.१)
तुतु (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
जनकभाषितम्जनक–भाषित (√भाष् + क्त, २.१)
वत्सवत्स (८.१)
रामराम (८.१)
धनुःधनुस् (२.१)
पश्यपश्य (√पश् लोट् म.पु. )
इतिइति (अव्ययः)
राघवम्राघव (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि श्वा मि त्रस्तु र्मा त्मा
श्रु त्वा भाषि तम्
त्स रा नुःश्य
ति राब्र वीत्