१.६६.१३

महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः ।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥

अन्वयः

राम: Rama, ब्रह्मर्षे: Brahmarshi's, वचनात् by the words, तत् धनु: that bow, यत्र wherever, तिष्ठति is placed, ताम् that, मञ्जूषाम् box, अपावृत्य having opened, धनु: bow, दृष्ट्वा having seen, अथ thereater, अब्रवीत् spoke.

Summary

At the words of the great rishi Viswamitra, Rama opened the casket, beheld the bow and said:

पदच्छेदः

महर्षेर्महत्–ऋषि (६.१)
वचनाद्वचन (५.१)
रामोराम (१.१)
यत्रयत्र (अव्ययः)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
तद्तद् (१.१)
धनुःधनुस् (१.१)
मञ्जूषांमञ्जूषा (२.१)
ताम्तद् (२.१)
अपावृत्यअपावृत्य (√अपा-वृ + ल्यप्)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
धनुर्धनुस् (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्षेर्व ना द्रा मो
त्र तिष्ठतिद्ध नुः
ञ्जू षां ता पा वृत्य
दृ ष्ट्वानु थाब्र वीत्