१.६६.१४

इदं धनुर्वरं ब्रह्मन्संस्पृशामीह पाणिना ।
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥

अन्वयः

ब्रह्मन् O Brahmarshi, इह now, इदम् धनुर्वरम् this excellent bow, पाणिना with hand, संस्पृशामि I shall touch, तोलने in raising (weighing ), पूरणेऽपि वा to string it, यत्नवान् भविष्यामि I shall endeavour.

Summary

"O Brahmarshi, shall I touch this great bow with my hands lift and string it".

पदच्छेदः

इदंइदम् (२.१)
धनुर्वरंधनुस्–वर (२.१)
ब्रह्मन्ब्रह्मन् (८.१)
संस्पृशामीहसंस्पृशामि (√सम्-स्पृश् लट् उ.पु. )–इह (अव्ययः)
पाणिनापाणि (३.१)
यत्नवांश्यत्नवत् (१.१)
(अव्ययः)
भविष्यामिभविष्यामि (√भू लृट् उ.पु. )
तोलनेतोलन (७.१)
पूरणेपूरण (७.१)
ऽपिअपि (अव्ययः)
वावा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दं नुर्व रं ब्रह्म
न्संस्पृ शा मी पाणि ना
त्न वांश्च वि ष्यामि
तो ने पू णेऽपि वा