१.६६.१६

पश्यतां नृषहस्राणां बहूनां रघुनन्दनः ।
आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः ॥

अन्वयः

धर्मात्मा virtuous, स: that, रघुनन्दन: Rama, बहूनाम् of several, नृपसहस्राणाम् thousands of men, पश्यताम् while seeing, तत् धनु: that bow, सलीलमिव as though with ease, आरोपयत् fixed the string and drew it.

Summary

Virtuous Rama, the delight of the Raghus, in the presence of several thousands of men fixed the string to the bow and drew it as though with ease.

पदच्छेदः

पश्यतांपश्यत् (√दृश् + शतृ, ६.३)
नृसहस्राणांनृ–सहस्र (६.३)
बहूनांबहु (६.३)
रघुनन्दनःरघुनन्दन (१.१)
आरोपयत्आरोपयत् (√आ-रोपय् लङ् प्र.पु. एक.)
तद् (१.१)
धर्मात्माधर्म–आत्मन् (१.१)
सलीलम् (अव्ययः)–लीला (२.१)
इवइव (अव्ययः)
तद्तद् (२.१)
धनुःधनुस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्य तांनृ स्रा णां
हू नांघुन्द नः
रोत्स र्मा त्मा
लीमिद्ध नुः