१.६६.१८

तस्य शब्दो महानासीन्निर्घातसमनिस्वनः ।
भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः ॥

अन्वयः

तस्य its, शब्द: sound, निर्घातसमनिस्वन: equalled to the clap of a thunder, महान् great, आसीत् became, पर्वतस्य of a mountain, दीर्यत: as if splitting, सुमहान् great, भूमिकम्पश्च trembling of the earth.

Summary

It generated a loud sound like the clap of thunder, like the trembling of the earth and the splitting of a mountain.

पदच्छेदः

तस्यतद् (६.१)
शब्दोशब्द (१.१)
महान्महत् (१.१)
आसीन्आसीत् (√अस् लङ् प्र.पु. एक.)
निर्घातसमनिःस्वनःनिर्घात–सम–निःस्वन (१.१)
भूमिकम्पश्भूमिकम्प (१.१)
(अव्ययः)
सुमहान्सु (अव्ययः)–महत् (१.१)
पर्वतस्येवपर्वत (६.१)–इव (अव्ययः)
दीर्यतःदीर्यत् (√दृ + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य ब्दो हा ना सी
न्नि र्घा निस्व नः
भूमि म्पश्चसु हा
न्पर्व स्ये दीर्य तः