१.६६.२४

भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणः ।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः ॥

अन्वयः

ब्रह्मन् O Brahman, कौशिक Kausika, भवत: your, अनुमते with the consent, मन्त्रिण: ministers, त्वरिता: hastily, रथै: in chariots, अयोध्याम् towards Ayodhya, शीघ्रम् immediately, गच्छन्तु may go, ते भद्रम् prosperity to you.

Summary

O Brahmarshi Kausika, be blessed With your consent my ministers will take the chariots to Ayodhya immediately.

पदच्छेदः

भवतोभवत् (६.१)
ऽनुमतेअनुमत (√अनु-मन् + क्त, ७.१)
ब्रह्मञ्ब्रह्मन् (८.१)
शीघ्रंशीघ्रम् (अव्ययः)
गच्छन्तुगच्छन्तु (√गम् लोट् प्र.पु. बहु.)
मन्त्रिणःमन्त्रिन् (१.३)
मममद् (६.१)
कौशिककौशिक (८.१)
भद्रंभद्र (१.१)
तेत्वद् (६.१)
अयोध्यांअयोध्या (२.१)
त्वरितात्वरित (१.३)
रथैःरथ (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽनु ते ब्रह्म
ञ्शी घ्रं च्छन्तुन्त्रि णः
कौशि द्रं ते
यो ध्यांत्वरि ता थैः