१.६७.१४

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।
वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् ॥

अन्वयः

स: राजा that king, तत् that, दूतवाक्यम् words of messengers, श्रुत्वा having listened, परमहर्षित: exceedingly rejoiced, वसिष्ठम् Vasishta, वामदेवम् Vamadeva, अन्यान् other, मन्त्रिणश्च ministers, अब्रवीत् spoke.

Summary

Exceedingly happy to hear the words of the messengers, the king said to Vasishta, Vamadeva and other ministers.

पदच्छेदः

दूतवाक्यंदूत–वाक्य (२.१)
तुतु (अव्ययः)
तच्तद् (२.१)
छ्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
राजाराजन् (१.१)
परमहर्षितःपरम–हर्षित (√हर्षय् + क्त, १.१)
वसिष्ठंवसिष्ठ (२.१)
वामदेवंवामदेव (२.१)
(अव्ययः)
मन्त्रिणोमन्त्रिन् (२.३)
ऽन्यांश्अन्य (२.३)
(अव्ययः)
सोतद् (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दू वा क्यंतु च्छ्रु त्वा
रा जार्षि तः
सि ष्ठं वा दे वं
न्त्रि णो ऽन्यांश्च सोऽब्र वीत्