१.६७.१८

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः ॥

पदच्छेदः

मन्त्रिणोमन्त्रिन् (१.३)
बाढम्बाढ (१.१)
इत्य्इति (अव्ययः)
आहुःआहुः (√अह् लिट् प्र.पु. बहु.)
सहसह (अव्ययः)
सर्वैर्सर्व (३.३)
महर्षिभिःमहत्–ऋषि (३.३)
सुप्रीतश्सु (अव्ययः)–प्रीत (√प्री + क्त, १.१)
चाब्रवीद् (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
राजाराजन् (१.१)
श्वोश्वस् (अव्ययः)
यात्रेतियात्रा (१.१)–इति (अव्ययः)
तद् (१.१)
मन्त्रिणःमन्त्रिन् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्त्रि णो बा मि त्या हुः
र्वैर्मर्षि भिः
सु प्री श्चाब्र वी द्रा जा
श्वो या त्रेतिन्त्रि णः