१.६७.१९

मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः ।
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥

पदच्छेदः

मन्त्रिणस्मन्त्रिन् (१.३)
तुतु (अव्ययः)
नरेन्द्रस्यनरेन्द्र (६.१)
रात्रिंरात्रि (२.१)
परमसत्कृताःपरम–सत्कृत (√सत्-कृ + क्त, १.३)
ऊषुःऊषुः (√वस् लिट् प्र.पु. बहु.)
प्रमुदिताःप्रमुदित (√प्र-मुद् + क्त, १.३)
सर्वेसर्व (१.३)
गुणैःगुण (३.३)
सर्वैःसर्व (३.३)
समन्विताःसमन्वित (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्त्रिस्तु रे न्द्रस्य
रा त्रिंत्कृ ताः
षुःप्रमुदि ताः र्वे
गु णैः र्वैःन्वि ताः