१.६७.८

सेयं मम सुता राजन्विश्वामित्रपुरःसरैः ।
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः ॥

अन्वयः

राजन् O King, सा इयम् that this, मम my, सुता daughter, विश्वामित्रपुरस्सरै: with Viswamitra at the forefront ahead, यदृच्छया casually, आगतै: who had come, तव your, वीरै: heroic ones, पुत्रकै: by your sons, निर्जिता has been won.

Summary

O King that this daughter of mine has been won by your heroic son Rama who has come here casually led by Viswamitra.

पदच्छेदः

सेयंतद् (१.१)–इदम् (१.१)
मममद् (६.१)
सुतासुता (१.१)
राजन्राजन् (८.१)
विश्वामित्रपुरःसरैःविश्वामित्र–पुरःसर (३.३)
यदृच्छयागतैर्यदृच्छा (३.१)–आगत (√आ-गम् + क्त, ३.३)
वीरैर्वीर (३.३)
निर्जितानिर्जित (√निः-जि + क्त, १.१)
तवत्वद् (६.१)
पुत्रकैःपुत्रक (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

से यंसु ता रा
न्वि श्वा मित्रपु रः रैः
दृच्छ या तै र्वी रै
र्निर्जि ता पुत्र कैः