१.६७.९

तच्च राजन्धनुर्दिव्यं मध्ये भग्नं महात्मना ।
रामेण हि महाराज महत्यां जनसंसदि ॥

अन्वयः

महाराज O Great among kings, राजन् Dasaratha, तत् that, दिव्यम् divine, धनु: bow, महत्याम् in the illimitable glory, जनसंसदि in the assembly of people, महात्मना by the magnanimous, रामेण by Rama, मध्ये in the middle, भग्नम् is broken.

Summary

O Great king, Dasaratha the divine bow with its limitless glory was broken in the middle by the great self Rama in the assembly of people.

पदच्छेदः

तच्तद् (१.१)
(अव्ययः)
राजन्राजन् (८.१)
धनुर्धनुस् (१.१)
दिव्यंदिव्य (१.१)
मध्येमध्य (७.१)
भग्नंभग्न (√भञ्ज् + क्त, १.१)
महात्मनामहात्मन् (३.१)
रामेणराम (३.१)
हिहि (अव्ययः)
महाराजमहत्–राज (८.१)
महत्यांमहत् (७.१)
जनसंसदिजन–संसद् (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्च रान्ध नु र्दि व्यं
ध्ये ग्नं हात्म ना
रा मेहि हा रा
त्यां संदि