१.६८.७

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् ।
राजा तु जनकः श्रीमाञ्श्रुत्वा पूजामकल्पयत् ॥

अन्वयः

चतुरहम् to be covered in four days, मार्गम् that path, गत्वा having passed, विदेहान् country of Videhas, अभ्युपेयिवान् arrived, राजा king, श्रीमान् the auspicious, जनक: Janaka, श्रुत्वा having heard, पूजाम् reverential hospitality, अकल्पयत् made.

Summary

Covering the distance in four days, they arrived in the country of the Videhas. The fortunate king Janaka, having heard about these tidings, made arangements to extend to them reverential hospitality.

पदच्छेदः

गत्वागत्वा (√गम् + क्त्वा)
चतुरहंचतुरह (२.१)
मार्गंमार्ग (२.१)
विदेहान्विदेह (२.३)
अभ्युपेयिवान्अभ्युपेयिवस् (√अभ्युप-इ + क्वसु, १.१)
राजाराजन् (१.१)
तुतु (अव्ययः)
जनकःजनक (१.१)
श्रीमाञ्श्रीमत् (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
पूजाम्पूजा (२.१)
अकल्पयत्अकल्पयत् (√कल्पय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वातु हं मा र्गं
वि दे हाभ्यु पेयि वान्
रा जातु कः श्री मा
ञ्श्रु त्वा पू जाल्प यत्