१.६९.२३

मान्धातुस्तु सुतः श्रीमान्सुसंधिरुदपद्यत ।
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥

अन्वयः

मान्धातु: for Mandhata, सुसन्धि: Susandhi, श्रीमान् venerable, उदपद्यत was born, सुसन्धेरपि for Susandhi, ध्रुवसन्धि: Dhruvasandhi, प्रसेनजित् Prasenajit, द्वौ two, पुत्रौ sons.

Summary

Mandhata's son was prosperous Susandhi who brought forth two sons Dhruvasandhi and Prasenajit.

पदच्छेदः

मान्धातुस्मान्धातृ (६.१)
तुतु (अव्ययः)
सुतःसुत (१.१)
श्रीमान्श्रीमत् (१.१)
सुसंधिर्सुसंधि (१.१)
उदपद्यतउदपद्यत (√उत्-पद् लङ् प्र.पु. एक.)
सुसंधेर्सुसंधि (६.१)
अपिअपि (अव्ययः)
पुत्रौपुत्र (१.२)
द्वौद्वि (१.२)
ध्रुवसंधिःध्रुवसंधि (१.१)
प्रसेनजित्प्रसेनजित् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा न्धा तुस्तुसु तः श्री मा
न्सु संधिरुद्य
सु सं धेपि पु त्रौ द्वौ
ध्रु सं धिःप्र से जित्