१.७.१६

अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ॥

पदच्छेदः

अवेक्षमाणश्अवेक्षमाण (√अव-ईक्ष् + शानच्, १.१)
चारेणचार (३.१)
प्रजाप्रजा (२.३)
धर्मेणधर्म (३.१)
रञ्जयन्रञ्जयत् (√रञ्जय् + शतृ, १.१)
नाध्यगच्छद् (अव्ययः)–अध्यगच्छत् (√अधि-गम् लङ् प्र.पु. एक.)
विशिष्टंविशिष्ट (√वि-शिष् + क्त, २.१)
वावा (अव्ययः)
तुल्यंतुल्य (२.१)
वावा (अव्ययः)
शत्रुम्शत्रु (२.१)
आत्मनःआत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वेक्ष मा श्चा रे
प्र जा र्मेञ्ज यन्
नाध्य च्छद्वि शि ष्टं वा
तु ल्यं वात्रु मात्म नः