१.७०.१९

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम् ।
सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् ॥

अन्वयः

मुनिश्रेष्ठ O Best of ascetics, नराधिपम् king, तम् that, सुधन्वानम् Sudhanva, निहत्य having killed, भ्रातरम् brother, वीरम् heroic one, कुशध्वजम् Kusadhwaja, साङ्काश्ये in Sankasya, अभ्यषिञ्चम् I have crowned.

Summary

O Best of ascetics having killed king Sudhanva, I have crowned my heroic brother Kusadhwaja in Sankasya.

पदच्छेदः

निहत्यनिहत्य (√नि-हन् + ल्यप्)
तंतद् (२.१)
मुनिश्रेष्ठमुनि–श्रेष्ठ (८.१)
सुधन्वानंसुधन्वन् (२.१)
नराधिपम्नराधिप (२.१)
सांकाश्येसांकाश्य (७.१)
भ्रातरंभ्रातृ (२.१)
शूरम्शूर (२.१)
अभ्यषिञ्चंअभ्यषिञ्चम् (√अभि-सिच् लङ् उ.पु. )
कुशध्वजम्कुशध्वज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नित्य तंमु नि श्रेष्ठ
सु न्वा नं राधि पम्
सां का श्ये भ्रा रं शू
भ्य षि ञ्चंकुध्व जम्