१.७०.३

राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥

अन्वयः

स्वेन by his own, कर्मणा acts, त्रिषु three, लोकेषु worlds, विश्रुत: known, परमधर्मात्मा supremely virtuous, सर्वसत्त्ववताम् those endowed with strength, वर: best, राजा निमि: अभूत् was king named Nimi.

Summary

There was a great man of religion king Nimi, strongest of men and wellknown in the three worlds by his own acts.

पदच्छेदः

राजाभूत्राजन् (१.१)–अभूत् (√भू प्र.पु. एक.)
त्रिषुत्रि (७.३)
लोकेषुलोक (७.३)
विश्रुतःविश्रुत (√वि-श्रु + क्त, १.१)
स्वेनस्व (३.१)
कर्मणाकर्मन् (३.१)
निमिःनिमि (१.१)
परमधर्मात्मापरम–धर्म–आत्मन् (१.१)
सर्वसत्त्ववतांसर्व–सत्त्ववत् (६.३)
वरःवर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा जा भूत्त्रिषु लो केषु
विश्रु तः स्वेर्म णा
नि मिः र्मा त्मा
र्वत्त्व तां रः