१.७१.१७

युवामसंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः ॥

अन्वयः

मिथिलेश्वरौ lords of Mithila, भ्रातरौ brothers, युवाम् both of you, असङ्ख्येयगुणौ have countless virtues, भवद्भ्याम् by you, ऋषय: rishis, राजसङ्घाश्च hosts of kings, अभिपूजिता: have been worshipped.

Summary

"You both brothers are lords of Mithila. You possess countless virtues. You pay regards to many rishis and hosts of kings".

पदच्छेदः

युवाम्त्वद् (१.२)
असंख्येयगुणौअसंख्येय–गुण (१.२)
भ्रातरौभ्रातृ (१.२)
मिथिलेश्वरौमिथिला–ईश्वर (१.२)
ऋषयोऋषि (१.३)
राजसंघाश्राजन्–संघ (१.३)
(अव्ययः)
भवद्भ्याम्भवत् (३.२)
अभिपूजिताःअभिपूजित (√अभि-पूजय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यु वा सं ख्येगु णौ
भ्रा रौमिथि लेश्व रौ
यो रा सं घाश्च
द्भ्याभि पूजि ताः