१.७२.१५

सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ।
अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते ॥

अन्वयः

सज्ज: kept ready, अहम् I, अस्याम् on this, वेद्याम् altar, प्रतिष्ठित: staying, त्वत्प्रतीक्ष: अस्मि awaiting you, राजा king, अविघ्नम् without hindrance, कुरुताम् let it be done, किमर्थम् why for, अवलम्बते delay.

Summary

Ready at the altar, I have been awaiting you, O King Without hindrance proceed Why delay?".

पदच्छेदः

सज्जोसज्ज (१.१)
ऽहंमद् (१.१)
त्वत्प्रतीक्षोत्वद्–प्रतीक्ष (१.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
वेद्याम्वेदि (७.१)
अस्यांइदम् (७.१)
प्रतिष्ठितःप्रतिष्ठित (√प्रति-स्था + क्त, १.१)
अविघ्नंअविघ्न (२.१)
कुरुतांकुरुताम् (√कृ लोट् प्र.पु. एक.)
राजाराजन् (१.१)
किमर्थं (२.१)–अर्थ (२.१)
हिहि (अव्ययः)
विलम्ब्यतेविलम्ब्यते (√वि-लम्ब् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्जो ऽहं त्वत्प्र ती क्षोऽस्मि
वे द्या स्यांप्र तिष्ठि तः
वि घ्नंकुरु तां रा जा
कि र्थंहिविम्ब्य ते