१.७२.१६

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।
प्रवेशयामास सुतान्सर्वानृषिगणानपि ॥

अन्वयः

तदा then, दशरथ: Dasaratha, जनकेन by Janaka, उक्तम् having been spoken, तत् those, वाक्यम् words, श्रुत्वा having listened, सुतान् sons, सर्वान् all, ऋषिगणानपि hosts of ascetics also, प्रवेशयामास made them enter.

Summary

At the words of Janaka, Dasaratha brought his sons along with the hosts of ascetics and entered the marriage pavilion.

पदच्छेदः

तद्वाक्यंतद् (२.१)–वाक्य (२.१)
जनकेनोक्तंजनक (३.१)–उक्त (√वच् + क्त, २.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
दशरथस्दशरथ (१.१)
तदातदा (अव्ययः)
प्रवेशयामासप्रवेशयामास (√प्र-वेशय् प्र.पु. एक.)
सुतान्सुत (२.३)
सर्वान्सर्व (२.३)
ऋषिगणान्ऋषि–गण (२.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वा क्यं के नो क्तं
श्रु त्वास्त दा
प्र वे या मासु ता
न्स र्वानृषि णापि