१.७२.२०

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥

अन्वयः

धर्मात्मा Virtuous, जनकेश्वर: monarch Janaka, शत्रुघ्नं चापि addressing Satrghna also, अब्रवीत् spoke, महाबाहो O Mighty armed one, पाणिना with your hand, श्रुतकीर्त्या: Srutakirti's, पाणिम् hand, गृह्णीष्व hold.

Summary

The righteous king Janaka, said again: "O Mightyarmed Satrughna take the hands of Srutakirti".

पदच्छेदः

शत्रुघ्नंशत्रुघ्न (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
अब्रवीज्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
जनकेश्वरःजनक–ईश्वर (१.१)
श्रुतकीर्त्याश्रुत (√श्रु + क्त)–कीर्ति (३.१)
महाबाहोमहत्–बाहु (८.१)
पाणिंपाणि (२.१)
गृह्णीष्वगृह्णीष्व (√ग्रह् लोट् म.पु. )
पाणिनापाणि (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रु घ्नं चापि र्मा त्मा
ब्र वीज्ज केश्व रः
श्रु की र्त्या हा बा हो
पा णिं गृ ह्णीष्व पाणि ना