१.७२.२५

ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुतमिवाभवत् ॥

पदच्छेदः

ननृतुश्ननृतुः (√नृत् लिट् प्र.पु. बहु.)
चाप्सरःसंघा (अव्ययः)–अप्सरस्–संघ (१.३)
गन्धर्वाश्गन्धर्व (१.३)
(अव्ययः)
जगुःजगुः (√गा लिट् प्र.पु. बहु.)
कलम्कल (२.१)
विवाहेविवाह (७.१)
रघुमुख्यानांरघु–मुख्य (६.३)
तद्तद् (१.१)
अद्भुतम्अद्भुत (१.१)
इवाभवत्इव (अव्ययः)–अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नृ तु श्चाप्स रः सं घा
न्ध र्वाश्च गुः लम्
वि वा हेघु मु ख्या नां
द्भुमि वा वत्