१.७३.९

घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥

पदच्छेदः

घोराःघोर (१.३)
स्मस्म (अव्ययः)
पक्षिणोपक्षिन् (१.३)
वाचोवाच् (२.३)
व्याहरन्तिव्याहरन्ति (√व्या-हृ लट् प्र.पु. बहु.)
ततस्ततस् (अव्ययः)
ततःततस् (अव्ययः)
भौमाश्भौम (१.३)
चैव (अव्ययः)–एव (अव्ययः)
मृगाःमृग (१.३)
सर्वेसर्व (१.३)
गच्छन्तिगच्छन्ति (√गम् लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
प्रदक्षिणम्प्रदक्षिण (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

घो राःस्मक्षि णो वा चो
व्यान्तिस्त तः
भौ मा श्चैमृ गाः र्वे
च्छ न्ति स्मप्रक्षि णम्