१.७४.१०

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥

अन्वयः

दशरथे when Dasaratha, एवम् in this way, ब्रुवति while saying, प्रतापवान् valiant, जामदग्न्य: son of Jamadagni, तद्वाक्यम् those words, अनादृत्यैव disregarding, राममेव Rama only, अभ्यभाषत addressed.

Summary

Disregarding these words of Dasaratha, the valiant son of Jamadagni said to Rama.

पदच्छेदः

ब्रुवत्य्ब्रुवत् (√ब्रू + शतृ, ७.१)
एवंएवम् (अव्ययः)
दशरथेदशरथ (७.१)
जामदग्न्यःजामदग्न्य (१.१)
प्रतापवान्प्रतापवत् (१.१)
अनादृत्यैवअनादृत्य (अव्ययः)–एव (अव्ययः)
तद्तद् (२.१)
वाक्यंवाक्य (२.१)
रामम्राम (२.१)
एवाभ्यभाषतएव (अव्ययः)–अभ्यभाषत (√अभि-भाष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्रु त्ये वं थे
जा ग्न्यःप्र ता वान्
ना दृ त्यै द्वा क्यं
रा मे वाभ्य भा