१.७५.१३

काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा ।
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥

अन्वयः

पूर्वम् formerly, वसुन्धरा earth, यदा when, मया by me, काश्यपाय for Kasyapa, दत्ता was given, मे my, विषये in my country, न वस्तव्यम् इति shall not live, माम् me, काश्यप: Kasyapa, अब्रवीत् spoke.

Summary

"When I gave this entire earth to Kasyapa, he said to me, 'you shall not live in my country'.

पदच्छेदः

काश्यपायकाश्यप (४.१)
मयामद् (३.१)
दत्तादत्त (√दा + क्त, १.१)
यदायदा (अव्ययः)
पूर्वंपूर्वम् (अव्ययः)
वसुंधरावसुंधरा (१.१)
विषयेविषय (७.१)
मेमद् (६.१)
(अव्ययः)
वस्तव्यम्वस्तव्य (√वस् + कृत्, १.१)
इतिइति (अव्ययः)
मांमद् (२.१)
काश्यपोकाश्यप (१.१)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

काश्य पा या त्ता
दा पू र्वं सुं रा
वि ये मे स्तव्य
मिति मां काश्य पोऽब्र वीत्