१.७५.१७

अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् ।
धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप ॥

अन्वयः

अस्य this, धनुष: bow's, परामर्शात् from stretching, त्वाम् you, अक्षय्यम् imperishable one, सुरेश्वरम् lord of devatas, मधुहन्तारम् Visnu, the slayer of Madhu, जानामि I know, परंतप tormentor of enemies, ते स्वस्ति अस्तु safety to you.

Summary

By the fact that you have stretched this bow, I have come to know that you are Visnu, Lord of the gods, slayer of Madhu, O Imperishable one O Tormentor of enemies Fare well.

पदच्छेदः

अक्षय्यंअक्षय्य (२.१)
मधुहन्तारंमधुहन्तृ (२.१)
जानामिजानामि (√ज्ञा लट् उ.पु. )
त्वांत्वद् (२.१)
सुरेश्वरम्सुरेश्वर (२.१)
धनुषोधनुस् (६.१)
ऽस्यइदम् (६.१)
परामर्शात्परामर्श (५.१)
स्वस्तिस्वस्ति (१.१)
तेत्वद् (४.१)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
परंतपपरंतप (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष य्यंधु न्ता रं
जा ना मि त्वांसु रेश्व रम्
नु षोऽस्य रा र्शा
त्स्वस्ति तेऽस्तु रं