१.७५.२

श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।
अनुरुन्ध्यामहे ब्रह्मन्पितुरानृण्यमास्थितः ॥

अन्वयः

भार्गव O Bhrigu's son, Parasurama, यत् which, कर्म acts, कृतवानसि you have done, श्रुतवान् अस्मि I have listened, ब्रह्मन् O Brahman, पितुः to your father, आनृण्यम् repaying the debt, आस्थितम् obtained, अनुरुन्ध्यामहे we will commend.

Summary

"O Descendant of Bhrigu I have listened to the (marvellous) acts you have performed. O Brahman I commend you for discharging your duty in repaying the debt to your father.

पदच्छेदः

श्रुतवान्श्रुतवत् (√श्रु + क्तवतु, १.१)
अस्मिअस्मि (√अस् लट् उ.पु. )
यत्यद् (२.१)
कर्मकर्मन् (२.१)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
असिअसि (√अस् लट् म.पु. )
भार्गवभार्गव (८.१)
अनुरुध्यामहेअनुरुध्यामहे (√अनु-रुध् उ.पु. द्वि.)
ब्रह्मन्ब्रह्मन् (८.१)
पितुर्पितृ (६.१)
आनृण्यम्आनृण्य (२.१)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु वास्मि त्कर्म
कृ वासि भार्ग
नु रु न्ध्या हे ब्रह्म
न्पितु रा नृण्य मास्थि तः