१.८.१५

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभाण्डकसुतं राजन्सर्वोपायैरिहानय ॥

अन्वयः

वेदपारगा: those learned in vedas, ते ब्राह्मणा: those brahmins, महीपालम् addressing the king, वक्ष्यन्ति will say, राजन् O king, विभण्डकसुतम् son of sage Vibhandaka, Rsyasringa, सर्वोपायै: by all means, इह here, आनय bring.

Summary

Those brahmins versed in the Vedas, said, to 'O king bring here Rsyasringa, son of the sage Vibhandaka by all means'.

पदच्छेदः

वक्ष्यन्तिवक्ष्यन्ति (√वच् लृट् प्र.पु. बहु.)
तेतद् (१.३)
महीपालंमहीपाल (२.१)
ब्राह्मणाब्राह्मण (१.३)
वेदपारगाःवेदपारग (१.३)
विभाण्डकसुतंविभाण्डक–सुत (२.१)
राजन्राजन् (८.१)
सर्वोपायैर्सर्व–उपाय (३.३)
इहानयइह (अव्ययः)–आनय (√आ-नी लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्यन्ति ते ही पा लं
ब्राह्म णा वे पा गाः
वि भाण्डसु तं रा
न्स र्वो पा यैरि हा