१.९.२५

दृष्ट्वैव च तदा विप्रमायान्तं हृष्टमानसाः ।
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः ॥

अन्वयः

तदा then, ता: they, आयान्तम् approaching, तं विप्रम् that brahmin, दृष्ट्वा एव after seeing him, हृष्टमानसा: rejoiced in mind, ता: सर्वा: all of them, तत: thereafter, उपसृत्य having approached, तम् addressing him, इदं वच: these words, ऊचु: uttered.

M N Dutt

As soon as they observed him coming, they came forward, and said, Do you, O Brāhmaṇa, come into our hermitage.

Summary

All of them were rejoiced on seeing the brahmin approaching them, came nearer to him and said:

पदच्छेदः

दृष्ट्वैवदृष्ट्वा (√दृश् + क्त्वा)–एव (अव्ययः)
(अव्ययः)
तदातदा (अव्ययः)
विप्रम्विप्र (२.१)
आयान्तंआयान्त् (√आ-या + शतृ, २.१)
हृष्टमानसाःहृष्ट (√हृष् + क्त)–मानस (१.३)
उपसृत्यउपसृत्य (√उप-सृ + ल्यप्)
ततःततस् (अव्ययः)
सर्वास्सर्व (१.३)
तास्तद् (१.३)
तम्तद् (२.१)
ऊचुर्ऊचुः (√वच् लिट् प्र.पु. बहु.)
इदंइदम् (२.१)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ ष्ट्वै दा विप्र
मा या न्तं हृष्ट मा साः
सृत्य तः र्वा
स्तास्त मूचुरि दं चः