२.१.१४

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥

पदच्छेदः

एवंएवम् (अव्ययः)
दशरथःदशरथ (१.१)
प्रीतोप्रीत (√प्री + क्त, १.१)
ब्राह्मणाब्राह्मण (१.३)
नैगमास्नैगम (१.३)
तथातथा (अव्ययः)
रामस्यराम (६.१)
शीलवृत्तेनशील–वृत्त (३.१)
सर्वेसर्व (१.३)
विषयवासिनःविषय–वासिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं थः प्री तो
ब्राह्म णा नै मास्त था
रास्य शी वृ त्ते
र्वेवि वासि नः