२.१.१५

स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥

अन्वयः

नित्यम् always, प्रशान्तात्मा one with a calm and serene mind, स: he (Rama), मृदुपूर्वम् gently, भाषते speaks, परुषम् harsh words, उच्यमान: अपि though addressed, उत्तरम् reply, न प्रतिपद्यते does not speak.

Summary

With an unfailing serenity of mind, Rama never paid back harshness with harshness.

पदच्छेदः

तद् (१.१)
हिहि (अव्ययः)
नित्यंनित्यम् (अव्ययः)
प्रशान्तात्माप्रशान्त (√प्र-शम् + क्त)–आत्मन् (१.१)
मृदुपूर्वंमृदु–पूर्वम् (अव्ययः)
(अव्ययः)
भाषतेभाषते (√भाष् लट् प्र.पु. एक.)
उच्यमानोउच्यमान (√वच् + शानच्, १.१)
ऽपिअपि (अव्ययः)
परुषंपरुष (२.१)
नोत्तरं (अव्ययः)–उत्तर (२.१)
प्रतिपद्यतेप्रतिपद्यते (√प्रति-पद् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि नि त्यंप्र शा न्ता त्मा
मृदु पू र्वं भा ते
च्य मा नोऽपिरु षं
नोत्त रंप्रतिद्य ते