२.१.१६

कथंचिदुपकारेण कृतेनैकेन तुष्यति ।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥

अन्वयः

आत्मवत्तया with selfrestraint, स: he (Rama), कथञ्चित् somehow, कृतेन done (by some one), एकेन single, उपकारेण benefit rendered, तुष्यति is pleased, अपकाराणाम् offences, शतमपि even a hundred, न स्मरति does not remember.

Summary

Gifted with selfrestraint, Rama was pleased even with a single benefit done somehow to him, yet did not remember even a hundred offences committed by others.

पदच्छेदः

कथंचिद्कथंचिद् (अव्ययः)
उपकारेणउपकार (३.१)
कृतेनैकेनकृत (√कृ + क्त, ३.१)–एक (३.१)
तुष्यतितुष्यति (√तुष् लट् प्र.पु. एक.)
(अव्ययः)
स्मरत्य्स्मरति (√स्मृ लट् प्र.पु. एक.)
अपकाराणांअपकार (६.३)
शतम्शत (२.१)
अप्य्अपि (अव्ययः)
आत्मवत्तयाआत्मवत्–ता (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थंचिदु का रे
कृ ते नै के तुष्यति
स्मत्य का रा णां
प्यात्मत्त या