२.१.२२

अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ।
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ॥

पदच्छेदः

अर्थधर्मौअर्थ–धर्म (२.२)
(अव्ययः)
संगृह्यसंगृह्य (√सम्-ग्रह् + ल्यप्)
सुखतन्त्रोसुख–तन्त्र (१.१)
(अव्ययः)
चालसः (अव्ययः)–अलस (१.१)
वैहारिकाणांवैहारिक (६.३)
शिल्पानांशिल्प (६.३)
विज्ञातार्थविभागवित्विज्ञात (√वि-ज्ञा + क्त)–अर्थ–विभाग–विद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्थ र्मौ सं गृह्य
सु न्त्रो चा सः
वै हारि का णां शि ल्पा नां
वि ज्ञा तार्थवि भा वित्