२.१.७

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥

अन्वयः

वीरौ heroes, भ्रातरौ both brothers, तत्र there, निवसन्तौ while living, कामत: of their own accord, तर्प्यमाणौ चापि even though satisfied, वृद्धम् aged, दशरथं नृपम् king Dasaratha, स्मरताम् (constanly) remembered.

Summary

Though both the heroic brothers stayed there satisfied on their own they constantly remembered their aged father.

पदच्छेदः

तत्रापितत्र (अव्ययः)–अपि (अव्ययः)
निवसन्तौनिवसत् (√नि-वस् + शतृ, १.२)
तौतद् (१.२)
तर्प्यमाणौतर्प्यमाण (√तर्पय् + शानच्, १.२)
(अव्ययः)
कामतःकाम (५.१)
भ्रातरौभ्रातृ (२.२)
स्मरतांस्मरताम् (√स्मृ लोट् प्र.पु. द्वि.)
वीरौवीर (१.२)
वृद्धंवृद्ध (२.१)
दशरथंदशरथ (२.१)
नृपम्नृप (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रापिनि न्तौ तौ
र्प्य मा णौ का तः
भ्रा रौस्म तां वी रौ
वृ द्धं थंनृ पम्